|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.57. अध्यायः 057
Mahabharata - Adi Parva - Chapter Topics
सर्पसत्रे हतानां नागानां नामकथनम्॥ 1 ।
Mahabharata - Adi Parva - Chapter Text
शौनक उवाच। 1-57-0x(280)(2289)
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने।
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज॥ 1-57-1(2290)
सौतिरुवाच। 1-57-2x(281)
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च।
न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम॥ 1-57-2(2291)
यथास्मृति तु नामानि पन्नगानां निबोध मे।
उच्यमानानि मुख्यानां हुतानां जातवेदसि॥ 1-57-3(2292)
वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे।
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्॥ 1-57-4(2293)
अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान्।
कोटिशो मानसः पूर्णः शलः पालो हलीमकः॥ 1-57-5(2294)
पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः।
हिरण्यबाहुः शरणः कक्षकः कालदन्तकः॥ 1-57-6(2295)
एते वासुकिजा नागाः प्रविष्टा हव्यवाहने।
अन्ये च बहवो विप्र तथा वै कुलसंभवाः।
प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः॥ 1-57-7(2296)
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्।
पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः॥ 1-57-8(2297)
उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः।
शिली शलकरो मूकः सुकुमारः प्रवेपनः॥ 1-57-9(2298)
मुद्गरः शिशुरोमा च सुरोमा च महाहनुः।
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्॥ 1-57-10(2299)
पारावतः पारियात्रः पाण्डरो हरिणः कृशः।
विहङ्गः शरभो मोदः प्रमोदः संहतापनः॥ 1-57-11(2300)
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्।
कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम॥ 1-57-12(2301)
एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः।
बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ॥ 1-57-13(2302)
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्।
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्॥ 1-57-14(2303)
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्।
शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ॥ 1-57-15(2304)
पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः।
अमाहठः कामठकः सुषेणो मानसोऽव्ययः॥ 1-57-16(2305)
`अष्टावक्रः कोमलकः श्वसनो मौनवेपगः।'
भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः।
ऋषभो वेगवान्नागः पिण्डारकमहाहनू॥ 1-57-17(2306)
रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ।
वराहको वीरणकः सुचित्रश्चित्रवेगिकः॥ 1-57-18(2307)
पराशरस्तरुणको मणिः स्कन्धस्तथाऽऽरुणिः।
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः॥ 1-57-19(2308)
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः।
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः॥ 1-57-20(2309)
न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः।
`द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे।
दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः'॥ 1-57-21(2310)
कालानलविषा घोरा हुताः शतसहस्रशः।
महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः॥ 1-57-22(2311)
योजनायामविस्तारा द्वियोजनसमायताः।
कामरूपाः कामबला दीप्तानलविषोल्बणाः॥ 1-57-23(2312)
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः॥ ॥ 1-57-24(2313)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सप्तपञ्चाशत्तमोऽध्यायः॥ 57 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-57-23 योजनायमविस्तारा अपि मन्त्रसामर्थ्यात्स्वल्पप्रमाणाः अगस्त्यकरगतसमुद्रवद्वह्नौ प्रवेशयोग्या भवन्ति॥ सप्तपञ्चाशत्तमोऽध्यायः॥ 57 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|